|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.100. अध्यायः 100
Mahabharata - Adi Parva - Chapter Topics
आकाशवाणीश्रवणानन्तरं सपुत्रायाः शकुन्तलाया राज्ञाङ्गीकारः॥ 1 ॥
भरतेतिनामकरणपूर्वकं पुत्रस्य राज्येऽभिषेकः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-100-0x(621)(4422)
अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी।
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम्॥ 1-100-1(4423)
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला॥ 1-100-2(4424)
`सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः।
आत्मा चैव सुतो नाम तेनैव तव पौरव॥ 1-100-3(4425)
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम्।
अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम्॥ 1-100-4(4426)
स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः।
मासि मासि रजो ह्यासां दुरितान्यपकर्षति॥ 1-100-5(4427)
ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः। 1-100-6(4428)
देवा ऊचुः।
आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम्'॥ 1-100-6x(622)
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला॥ 1-100-7(4429)
`पतिर्जायां प्रविशति स तस्यां जायते पुनः।
अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम्॥' 1-100-8(4430)
जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम्।
तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप॥ 1-100-9(4431)
सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम्।
शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम्॥ 1-100-10(4432)
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि।
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः॥ 1-100-11(4433)
`भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्।
अपरे ये च पूर्वे च भारता इति तेऽभवन्॥ 1-100-12(4434)
वैशम्पायन उवाच। 1-100-13x(623)
एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः।
पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे॥' 1-100-13(4435)
तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम्।
`सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः॥' 1-100-14(4436)
पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम्।
शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम्॥ 1-100-15(4437)
`शृण्वन्तु देवतानां च महर्षीणां च भाषितम्'।
अहमप्येवमेवैनं जानामि सुतमात्मजम्॥ 1-100-16(4438)
यद्यहं वचनादस्या गृह्णीयामिममात्मजम्।
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम्॥ 1-100-17(4439)
वैशम्पायन उवाच। 1-100-18x(624)
तां विशोध्य तदा राजा देवैः सह महर्षिभिः।
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम्॥ 1-100-18(4440)
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः।
कारयामास मुदितः प्रीतिमानात्मजस्य ह।
मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे॥ 1-100-19(4441)
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः।
मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः॥ 1-100-20(4442)
स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः।
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः॥ 1-100-21(4443)
लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत्।
कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः॥ 1-100-22(4444)
तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम्॥ 1-100-23(4445)
शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम्।
तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम्॥ 1-100-24(4446)
`ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः।
त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम्'॥ 1-100-25(4447)
पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव॥ 1-100-26(4448)
यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये।
प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे॥ 1-100-27(4449)
`अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम्।
त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः।
क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः॥ 1-100-28(4450)
एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम्।
अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम्॥ 1-100-29(4451)
वासोभिरन्नपानैश्च पूजयित्वा तु भारत।
`स मातरमुपस्थाय रथन्तर्यामभाषत॥ 1-100-30(4452)
मम पुत्रो वने जातस्तव शोकप्रणशनः।
ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने॥ 1-100-31(4453)
विश्वामित्रसुता चेयं कण्वेन च विवर्धिता।
स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम्॥ 1-100-32(4454)
पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे।
पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम्॥ 1-100-33(4455)
परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत्।
उवाच वचनं सत्यं लक्षये लक्षणानि च॥ 1-100-34(4456)
तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति।
तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत्॥ 1-100-35(4457)
दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि।
एवमुक्ता रथ्तर्या परं हर्षमवाप सा॥ 1-100-36(4458)
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा।
ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम्॥ 1-100-37(4459)
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः।
दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा'॥ 1-100-38(4460)
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत्।
`भरते भारमावेश्य कृतकृत्योऽभवन्नृपः॥ 1-100-39(4461)
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः।
गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान्॥' ॥ 1-100-40(4462)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शततमोऽध्यायः॥ 100 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|